Thursday, January 26, 2012

bhartru hari,'s 4th sathakam - vignana sathakam

ॐ गं गणपतयॆ नमः । ॐ श्री मात्रॆ नमः । ॐ श्रीसरस्वत्यै नमः। ॐ श्री उमेशाभ्यां नमः।
                                भर्तुहरॆर्विज्ञानशतककर्तृत्वपरिशीलनम्
                                                         कोरिडे विश्वनाथ शर्मा
                                                         संस्कृतोपन्यासक:

                                                                   लॊकॆ प्रसिद्धः खलु भर्तृहरिः। यश्च तावन्नीतिशृङ्गारवैराग्याख्यानि शतकानि विरचितवान् । कवॆरस्यमुक्तकश्लॊकास्तु नितरां प्रचुरतराः । आसॆतुहिमाचलपर्यन्तं जनसामान्यानामपि कण्ठगतत्वॆन कवेरस्य कवितायाः प्राशस्त्यं व्यज्यतॆ । कविरयं स्वनीतिशतकॆन पामरानपि जनान् नयमार्गानुसरान् कर्तुं प्रयतत। शृङ्गारशतकॆनापि शृङ्गाररसगुलिकैः पद्यरत्नैः पठितॄणां हृदयानि मनॊल्लासपरिपूर्णानि च कृतानि नितराम्।तस्मादारभ्य तृतीयशतकान्तं वैराग्यं विस्तारितं कविना, यॆन सहृदया अपि मुमुक्षवॊ भवेयुः ।
   तदत्र तॆषु श्लॊकॆषु क्रमॊऽयं विद्यतॆ,यदनॆनैव मार्गॆण जनॊ नीति संपन्नॊ भूत्वा शृङ्गारी च सन्, ततॊ विरक्तिं च प्राप्य अवधूतमार्गावलंब्य मुमुक्षुर्भविष्यति । ऎतॆषां निर्माणॆ भर्तृहरिर्न कॆवलं कविरॆव,अनुभूतकर्मकश्चॆति तस्य शतकानां संदर्शनॆनावगम्यतॆ। यतः `भार्यया कृतापराधया विरक्तॊ भूत्वा सन्यासाश्रमं स्वीकृतवा'निति कवॆर्विषयॆ काचित्कथा प्रसिद्धा । सा सत्यमॆवॆति मन्तुं शक्यतॆ।

    शतकत्रयस्यास्य प्रतयस्तु विभिन्नतया लभ्यन्तॆ ।  ऎकस्य़ामपलब्धः श्लॊकस्त्वन्यस्यां
पाठान्तरॆण वा अथवा नचैव वा उपलभ्यतॆ । क्रमभॆदतयापि वा विद्यतॆ । द्वादशशताब्दीयॆन रामचंद्रबुधॆन्द्रॆण विरचितव्याख्यासहित शतकॆषु उपलब्ध पद्धति विधानं  त्वितरत्र नॊपलभ्यते । पाठान्तराण्यप्यनॆकानि च विद्यन्ते। श्लॊकॊऽयं भर्तृरॆवॆति,नायमिति च वक्तुं दूस्साध्यं भवति। व्याख्यानान्यप्यनॆकानि लभ्यन्तॆ।

  तदॆवं स्थितॆ मुम्बायि नगरस्थित गुजरात् प्रिण्टिंग् प्रेस् नामक प्रकाशकैर् " विज्ञानशतकम् "
नाम ग्रंथः प्रकाशितः षष्टि (६०) वर्षपूर्वमॆव (१) । घूर्जर (गुजरात्) भाषायां यस्य ग्रन्थस्य
व्याख्याऽप्युपलब्धा तत्रैव । अन्यैरॆष ग्रन्थः प्रकाशितॊ वा ? न वा ? न ज्ञायतॆ । अस्मिन्
विषयॆ अस्मत् पितृपादॆन संस्कृतसाहित्यरत्न पदलाञ्छनॆन डा॥ कॊरिडॆ राजन्नशास्त्रि
महॊदयॆन २००३ वत्सरॆ प्रकाशितॊ लघुनिबन्धः (२) । अमुं विहाय निबन्धा ह्यन्यॆशोधनान्यपि
चान्यानि प्रकाशितानि वा? न वा? इत्यपि विचारणीयमॆव । तथापि ग्रन्थस्य अस्य दर्शनॆनैवाहं
अस्मिन् निबन्धलॆखनॆ उत्सुकॊऽभवम् ।
   अत्र प्रश्नॊऽयमुत्पद्यतॆ , यत् अस्य विज्ञानशतकस्य निर्दॆशकः कविर् भर्तृहरिः,त्रिशातिकर्ता भर्तृहरिश्च एक एव ? उत अन्यो वा? इत्यत्र मया कानि चन तुलनात्मकांशानि निक्षिप्यन्तॆ ।* कामिनीगर्हणम् :-अत्र कवॆर्जीवनसंविधानॆ या पत्न्यपराधसंबन्धनी कथा शॄयतॆ, तस्याः समर्थनॆ स्वॆनैवोक्तः
श्लॊकॊऽयमिति विद्वद्भिरुदाह्रियतॆ यत्-

       श्लॊ ॥ यां चिन्तयामि सततं मयि सा विरक्ता     
  साऽप्यन्यमिच्छति जनं स जनॊऽन्यसक्तः।
अस्मत्कृतॆ च परितुष्यति काचिदन्या,धिक् तां च तम् च् मदनं च इमां च मां च ॥ कविरयं ऎवंविधैः श्लोकैरनॆकैः कामिनीगर्हणं कृतवान् । विज्ञानशतकॆऽपि
कामिनीगर्हणमुपलभ्यतॆ । तदॆवं विदांकुर्वन्तु -श्लॊ॥ हरति वपुषः कान्तिं पुंसः करॊति बलक्षतिं,जनयति भृशं भ्रान्तिं नारी सुखाय निषॆविता ।

*
विरतिविरसा भूत्वा यस्मात् ततॊ न विवॆकिभिर्,विषयविमुखैः सॆव्या मायासमाश्रित विग्रहा॥ (विज्ञान...३९.)कामिनीप्रशंसा :- अपिच त्रिशतककर्त्रा तस्याः कामिन्याः प्रशंसाऽपि कृता, या शृङ्गाररसस्यन्दना एव । पश्यन्तु-श्लो॥ गुरुणा स्तनभारॆण मुखचंद्रॆण भास्वता।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा॥ (शृंगार..१९(३) )यद्यपि विज्ञानशतककारॆणापि -श्लो॥ कमलवदना पीनॊत्तुङ्गं घटाकृति बिभ्रती,स्तनयुगमियं तन्वी श्यामा विशालदृगंचला ।
विशद दशना मध्यॆ क्षामा वृथॆति जनाः श्रमं,विदधति मुधा रागादुच्चैरनीदृशवर्णनॆ ॥ (विज्ञान...४०.)इति वर्णितम् । तथापि मातृत्वरूपमपि दृष्ट्वा एवं प्रशंसितवान् ।
श्लॊ ॥ जनयति सुतं कंचिन्नारी सती कुलभूषणं,निरुपमगुणैः पुण्यात्मानं जगत्परिपालनम्।
कथमपि न सा निन्द्या वन्द्या भवॆन्महतां यतः,सुरसरिदिव ख्याता लॊकॆपवित्रितभूतलॆ ॥.....(विज्ञान...४३.)एवं विधा मातृरूपस्त्रीप्रशंसा शतकत्रये तु नॊपलभ्यते ।*
"

"
हरिस्मरणम् :-हरिस्मरणविषये तु विज्ञानशतकारॆण कृता-स कस्यालं क्लॆशॊ हरति न हरिः कीर्तितगुणः॥.".... (विज्ञान...८.)इत्येवंस्तुतिरपि विद्यतॆ। एवमॆव नीतिशतककारेणाऽपि-तुष्टे विष्टपहारिणीष्टदहरौ संप्राप्यतॆ दॆहिना॥."...(नीति..)इति कृतभक्तचेष्टितैः संतृप्तॊ भगवान् श्रीहरिः श्लाघनीयानि भक्ताय पुत्र कलत्रमित्रादी नि ददातीत्युक्तम् ।

*
शिवभक्तिः :-तथापि त्रिशतककर्त्रा तु यद्यपि शिवकेशवयॊरभेदं जानन्नपि आत्मनस्तु शिवे एव
परमभक्तिरस्तीति सुस्पष्टमवोचत् यत्-श्लॊ॥ महॆश्वरे वा जगतामधीश्वरेजनार्दने वा जगदन्तरात्मनि।
न वस्तुभेदप्रतिप्रत्तिरस्ति मे,तथाऽपि भक्तिस्तरुणेन्दुशेखरे॥...... (वैराग्य...४८ )विज्ञानशतककारॆणापि -श्लॊ॥ चिद्रत्नमत्र पतितं वपुरन्धकूपे,पुंसो भ्रमादनुपमं महनीयतॆजः।

तदा
सद्य: समुद्धरति तद्भविता कृतार्थॊ,मन्ये स एव समुपासित विश्वनाथः॥.... (विज्ञान...२४.)इति शिवभक्तिप्रशंसा कृता। तथापि अस्य कवेः श्रीरङ्गधाम्नि परमभक्तिर् दृश्यते एव दृश्यते एव अनेकत्र। दृश्यतां-श्लॊ॥न चित्ते सामर्थ्यं भवनमरणातंक हरणे,मनॊनिर्दिष्टेऽस्मिन्नपगतगुणे ज्ञातुमकुलॆ। मेघश्यामं कमलदलदीर्घाक्षममलं,भजस्व श्रीरंगं शरदमृतधामाधिकमुखम्॥.........(विज्ञान...१६.)तदेवमत्र श्रीरङ्गधामेश्वरीदेव्याः स्तुतिः श्रीसूक्तात् स्मर्यते-श्लो॥ लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं..................................वन्दे मुकुन्दप्रियाम्॥
यदनया स्तुत्या श्रीरङ्गधामक्षेत्रस्य आधुनिकत्व मत निरसन द्वारा विज्ञानशतक कर्तृरपि आधुनिकत्वप्रकल्पनं निरस्तं भवेदिति वक्तुं शक्यत इति मन्यॆ ।अस्तु ।* काशीपुरवासेच्छा :-काशीपुरवासेच्छा विषये त्रिशतककारिणा वैराग्यशतकॆ त्वेवमुत्कण्ठता प्रदर्शिता।
श्लो॥ कदा वाराण्स्याममरतटिनीरोधसि वसन्,वसानः कौपीनं शिरसि निदधानॊऽञ्जलिपुटम् ।
अयॆ! गौरीनाथ ! त्रिपुरहर ! शम्भॊ ! त्रिनयन !प्रसीदेत्याक्रोषन्निमिषमिव नेष्यामि दिवसान् ॥..... (वैराग्य...८७ )अत्र काशीतटवाहिन्याः गंगानद्याः पुलिनतटे शिवस्मरणेच्छा प्रकटिता । यदनॆनास्य
वं
काशीक्षॆत्रे कृतनिवासेच्छा, विश्वेश्वरे गंगायां च् परमभक्तिः सुस्पष्टतया निरूपिता। तथै प्रकारेण अनॆकत्रापि बहुधा दर्शिता कविना भक्तिः । एवमॆवमॆव विज्ञानशतकॆऽपि -श्लॊ॥ कदा भागीरथ्या भवजलधिसंसारतरणेः,स्खलद्वीचीमालाचपलतलविस्तारित मुदः ।
तमस्थाने कुञ्जे क्वचिदपि निविश्याहृतमना,भविष्याम्येकाकी नरकमथने ध्यानरसिकः॥ ..(विज्ञान...८५.)इत्युक्तम् । अत्र गंगातटिनीरोधसि निवसितुं कविना प्रकटितेच्छा। तत्रापि
एकाकी सन् । एवं वैराग्यशतकेऽपि-श्लो॥ एकाकी निस्पृहः शान्तः पाणिपात्रॊ दिगंबरः।
कदा शम्भॊ ! भविष्यामि कर्म निर्मूलनक्षमः॥ (वैराग्य...८९ )इति कविरेकाकी एव भूत्वा निवसने इच्छुकवानस्मीति प्रकटितवान् । एवं गंगास्तवनमपिउभयत्र प्रदर्शितं मुक्तकैरनॆकैः। किन्तु विज्ञानशतककारेण तद्गंगापुलिने गॊविंदनाम
स्मरणासक्तिरपि प्रदर्शिता। पश्यन्तु-श्लॊ॥ कदागोविन्देति प्रतिदिवसमुल्लासमिलिताः,सुधाधारा प्राया स्त्रिदशतटिनीवीचिमुखरे ।
भविष्यत्येकान्ते क्वचिदपि निकुञ्जे ममगिरॊ,मरालीचक्राणां श्रुतिसुखरवाक्रान्तपुलिनॆ॥ .................... (विज्ञान...८६.)इति।अत्र प्रायागस्थस्य भगवतो माधवस्य नामधेयमेव भवॆत् । यतः स एव भगवान्
खलु गंगायुते त्रिवेणी संगमस्थानतटे विलसति । यतो हि -श्लो॥ काशीक्षॆत्रनिवासं च कालभैरवदर्शनम्।प्रयागॆ माधवं दृष्ट्वा एक बिल्वं शिवार्पणम्॥इति भगवता विश्वेश्वरेण सह स्तुतॊ हि माधवः।धनाकाङ्क्षा विरक्तिः -धनाकाङ्क्षा , कुनृपतिभिर्दत्तसुखमपि विज्ञानशतककारॆण एवं निरस्तं- दृश्यताम्
श्लो॥ अहं श्रान्तो ऽध्वानं बहुविधमतिक्रम्य विषमं, धनाकाङ्क्षाक्षिप्तः कुनृपतिसुखालोकनपरः ।
इदानीं केनापि स्थितिमुदरकूपस्य भरणॆ,कदन्नॆनारण्यॆ क्वचिदपि समीहे स्थिरमतिः ॥ ........ (विज्ञान...७७ ) एवं वैराग्यशतकेऽपि-श्लो ॥ चेतश्चिन्तय मा रमां सुकृदिमामास्थायिनीमास्थया,भूपालभृकुटीकुटीविहरण व्यापारपण्यङ्गनाम् ।

ॐ
कन्थाकंचुकिताः प्रविश्य भवनद्वाराणि वाराणसी-रथ्यापङ्क्तिषु पाणिपात्र पतितां भिक्षापीक्षामहे ॥ इति कविः स्वचेतः संबोधयन् नृपतिभिर्दत्तसंपदं निरस्तवान् ।............. (वैराग्य...६५ ) गं गणपतयॆ नमः । ॐ श्री मात्रॆ नमः । ॐ श्रीसरस्वत्यै नमः। ॐ श्री उमेशाभ्यां नमः।भर्तुहरॆर्विज्ञानशतककर्तृत्वपरिशीलनम्कोरिडे विश्वनाथ शर्मा

संस्कृतोपन्यासक:श्री ल.न.सं.आं.कलाशाला,धर्मपुरी.लॊकॆ प्रसिद्धः खलु भर्तृहरिः। यश्च तावन्नीतिशृङ्गारवैराग्याख्यानि शतकानि विरचितवान् । कवॆरस्यमुक्तकश्लॊकास्तु नितरां प्रचुरतराः । आसॆतुहिमाचलपर्यन्तं जनसामान्यानामपि कण्ठगतत्वॆन कवेरस्य कवितायाः प्राशस्त्यं व्यज्यतॆ । कविरयं स्वनीतिशतकॆन पामरानपि जनान् नयमार्गानुसरान् कर्तुं प्रयतत। शृङ्गारशतकॆनापि शृङ्गाररसगुलिकैः पद्यरत्नैः पठितॄणां हृदयानि मनॊल्लासपरिपूर्णानि च कृतानि नितराम्।
तस्मादारभ्य तृतीयशतकान्तं वैराग्यं विस्तारितं कविना, यॆन सहृदया अपि मुमुक्षवॊ भवेयुः ।
तदत्र तॆषु श्लॊकॆषु क्रमॊऽयं विद्यतॆ,यदनॆनैव मार्गॆण जनॊ नीति संपन्नॊ भूत्वा शृङ्गारी च सन्, ततॊ विरक्तिं च प्राप्य अवधूतमार्गावलंब्य मुमुक्षुर्भविष्यति । ऎतॆषां निर्माणॆ भर्तृहरिर्न कॆवलं कविरॆव,अनुभूतकर्मकश्चॆति तस्य शतकानां संदर्शनॆनावगम्यतॆ। यतः `भार्यया कृतापराधया विरक्तॊ भूत्वा सन्यासाश्रमं स्वीकृतवा'निति कवॆर्विषयॆ काचित्कथा प्रसिद्धा । सा सत्यमॆवॆति मन्तुं शक्यतॆ।शतकत्रयस्यास्य प्रतयस्तु विभिन्नतया लभ्यन्तॆ । ऎकस्य़ामपलब्धः श्लॊकस्त्वन्यस्यां
पाठान्तरॆण वा अथवा नचैव वा उपलभ्यतॆ । क्रमभॆदतयापि वा विद्यतॆ । द्वादशशता- ब्दीयॆन रामचंद्रबुधॆन्द्रॆण विरचितव्याख्यासहित शतकॆषु उपलब्ध पद्धति विधानं
त्वितरत्र नॊपलभ्यते । पाठान्तराण्यप्यनॆकानि च विद्यन्ते। श्लॊकॊऽयं भर्तृरॆवॆति,नायमिति च वक्तुं दूस्साध्यं भवति। व्याख्यानान्यप्यनॆकानि लभ्यन्तॆ।तदॆवं स्थितॆ मुम्बायि नगरस्थित गुजरात् प्रिण्टिंग् प्रेस् नामक प्रकाशकैर् " विज्ञानशतकम् " नाम ग्रंथः प्रकाशितः षष्टि (६०) वर्षपूर्वमॆव (१) । घूर्जर (गुजरात्) भाषायां यस्य ग्रन्थस्य व्याख्याऽपलब्धा तत्रैव । अन्यैरॆष ग्रन्थः प्रकाशितॊ वा ? न वा ? न ज्ञायतॆ । अस्मिन् विषयॆ अस्मत् पितृपादॆन संस्कृतसाहित्यरत्न पदलाञ्छनॆन डा॥ कॊरिडॆ राजन्न शास्त्रि महॊदयॆन २००३ वत्सरॆ प्रकाशितॊ लघुनिबन्धः (२) । अमुं विहाय निबन्धा ह्यन्यॆशोधनान्यपि चान्यानि प्रकाशितानि वा? न वा? इत्यपि विचारणीयमॆव । तथापि ग्रन्थस्य अस्य दर्शनॆनैवाहं अस्मिन् निबन्धलॆखनॆ उत्सुकॊऽभवम् ।
अत्र प्रश्नॊऽयमुत्पद्यतॆ , यत् अस्य विज्ञानशतकस्य निर्दॆशकः कविर् भर्तृहरिः,त्रिशातिकर्ता भर्तृहरिश्च एक एव ? उत अन्यो वा? इत्यत्र मया कानि चन तुलनात्मकांशा-नि निक्षिप्यन्तॆ ।* कामिनीगर्हणम् :-अत्र कवॆर्जीवनसंविधानॆ या पत्न्यपराधसंबन्धनी कथा शॄयतॆ, तस्याः समर्थनॆ स्वॆनैवोक्तः
श्लॊकॊऽयमिति विद्वद्भिरुदाह्रियतॆ यत्-श्लॊ ॥ यां चिन्तयामि सततं मयि सा विरक्ता,साऽप्यन्यमिच्छति जनं स जनॊऽन्यसक्तः।

कन्थाकंचुकिताः प्रविश्य भवनद्वाराणि वाराणसी-रथ्यापङ्क्तिषु पाणिपात्र पतितां भिक्षापीक्षामहे ॥ इति कविः स्वचेतः संबोधयन् नृपतिभिर्दत्तसंपदं निरस्तवान् ।............. (वैराग्य...६५ )

No comments:

Post a Comment