Friday, January 27, 2012

Hanmath managala shlokas

ఓం శ్రీవాగీశ్వర్యై నమః     ఓం గం గణపతయే నమః      ఓం శ్రీశోమేశ్వరాభ్యాం నమః
                              ఓం శ్రీ సీతారామాభ్యాం నమః
                               ఓం శ్రీ ప్రసన్నాంజనేయాయ నమః
                      శ్రీమద్ధర్మపురీ ప్రసన్నాంజనేయ మంగళాశాసనం
భాస్వద్వానర రూపాయ వాయుపుత్రాయ ధీమతే |
అంజనీగర్భజాతాయ ఆంజనేయాయ మంగళమ్ || 1 ||

సూర్యశిష్యాయ శూరాయ సూర్యకోటిప్రకాశినే |
 సురేంద్రాదిభిర్వంద్యాయ ఆంజనేయాయ మంగళమ్ || 2||

రామసుగ్రీవసంధాత్రే రామాయార్పితచేతసే |
 రామనామైక నిష్ఠాయ రామమిత్రాయ మంగళమ్ || 3 ||

మనోజవేన గంత్రే చ సముద్రోల్లంఘనాయ చ |
 మైనాకార్చిత పాదాయ రామదూతాయ మంగళమ్ || 4 ||

నిర్జిత సురసాయాస్మై సంహృతసింహికాసవే |
 లంకిణీగర్వభంగాయ రామదూతాయ మంగళమ్ || 5 ||

హృతలంకేశగర్వాయ లంకాదహనకారిణే |
 సీతాశోకవినాశాయ రామదూతాయ మంగళమ్ || 6 ||

భీభత్సరణరంగాయ దుష్టదైత్య వినాశినే |
 రామలక్ష్మణవాహాయ రామభృత్యాయ మంగళమ్ || 7 ||

ధృతసంజీవహస్తాయ కృతలక్ష్మణజీవినే |
 భృతలంకాసురార్తాయ రామభటాయ మంగళమ్ || 8 ||

జానకీరామసంధాత్రే జానకీహ్లాదకారిణే |
 హృత్ప్రతిష్ఠితరామాయ రామదాసాయ మంగళమ్ || 9 ||

రమ్యే ధర్మపురీక్షేత్రే నృసింహస్య చ మన్దిరే |
 విలసద్ రామనిష్ఠాయ వాయుపుత్రాయ మంగళమ్ || 10 ||

గాయంతం రామ రామేతి భక్తం తం రక్షకాయ చ |
శ్రీ ప్రసన్నాంజనేయాయ వరదాత్రే చ మంగళమ్ || 11 ||

విశ్వలోకసురక్షాయ విశ్వనాథనుతాయ చ |
శ్రీ ప్రసన్నాంజనేయాయ వరదాత్రే చ మంగళమ్ || 12 ||

భగవదాశీర్వాదాభిలాషీ
కోరిడే విశ్వనాథ శర్మా
ధర్మపురీ

Thursday, January 26, 2012

bhartru hari,'s 4th sathakam - vignana sathakam

गं गणपतयॆ नमः । श्री मात्रॆ नमः । श्रीसरस्वत्यै नमः। ॐ श्री उमेशाभ्यां नमः।
                                भर्तुहरॆर्विज्ञानशतककर्तृत्वपरिशीलनम्
                                                         कोरिडे विश्वनाथ शर्मा
                                                         संस्कृतोपन्यासक:

                                                                   लॊकॆ प्रसिद्धः खलु भर्तृहरिः। यश्च तावन्नीतिशृङ्गारवैराग्याख्यानि शतकानि विरचितवान् कवॆरस्यमुक्तकश्लॊकास्तु नितरां प्रचुरतराः आसॆतुहिमाचलपर्यन्तं जनसामान्यानामपि कण्ठगतत्वॆन कवेरस्य कवितायाः प्राशस्त्यं व्यज्यतॆ कविरयं स्वनीतिशतकॆन पामरानपि जनान् नयमार्गानुसरान् कर्तुं प्रयतत। शृङ्गारशतकॆनापि शृङ्गाररसगुलिकैः पद्यरत्नैः पठितॄणां हृदयानि मनॊल्लासपरिपूर्णानि कृतानि नितराम्।तस्मादारभ्य तृतीयशतकान्तं वैराग्यं विस्तारितं कविना, यॆन सहृदया अपि मुमुक्षवॊ भवेयुः
   तदत्र तॆषु श्लॊकॆषु क्रमॊऽयं विद्यतॆ,यदनॆनैव मार्गॆण जनॊ नीति संपन्नॊ भूत्वा शृङ्गारी सन्, ततॊ विरक्तिं प्राप्य अवधूतमार्गावलंब्य मुमुक्षुर्भविष्यति ऎतॆषां निर्माणॆ भर्तृहरिर्न कॆवलं कविरॆव,अनुभूतकर्मकश्चॆति तस्य शतकानां संदर्शनॆनावगम्यतॆ। यतः `भार्यया कृतापराधया विरक्तॊ भूत्वा सन्यासाश्रमं स्वीकृतवा'निति कवॆर्विषयॆ काचित्कथा प्रसिद्धा सा सत्यमॆवॆति मन्तुं शक्यतॆ।

    शतकत्रयस्यास्य प्रतयस्तु विभिन्नतया लभ्यन्तॆ   ऎकस्य़ामपलब्धः श्लॊकस्त्वन्यस्यां
पाठान्तरॆण वा अथवा नचैव वा उपलभ्यतॆ क्रमभॆदतयापि वा विद्यतॆ द्वादशशताब्दीयॆन रामचंद्रबुधॆन्द्रॆण विरचितव्याख्यासहित शतकॆषु उपलब्ध पद्धति विधानं  त्वितरत्र नॊपलभ्यते पाठान्तराण्यप्यनॆकानि विद्यन्ते। श्लॊकॊऽयं भर्तृरॆवॆति,नायमिति वक्तुं दूस्साध्यं भवति। व्याख्यानान्यप्यनॆकानि लभ्यन्तॆ।

  तदॆवं स्थितॆ मुम्बायि नगरस्थित गुजरात् प्रिण्टिंग् प्रेस् नामक प्रकाशकैर् " विज्ञानशतकम् "
नाम ग्रंथः प्रकाशितः षष्टि (६०) वर्षपूर्वमॆव () घूर्जर (गुजरात्) भाषायां यस्य ग्रन्थस्य
व्याख्याऽप्युपलब्धा तत्रैव अन्यैरॆष ग्रन्थः प्रकाशितॊ वा ? वा ? न ज्ञायतॆ अस्मिन्
विषयॆ अस्मत् पितृपादॆन संस्कृतसाहित्यरत्न पदलाञ्छनॆन डा॥ कॊरिडॆ राजन्नशास्त्रि
महॊदयॆन २००३ वत्सरॆ प्रकाशितॊ लघुनिबन्धः () अमुं विहाय निबन्धा ह्यन्यॆशोधनान्यपि
चान्यानि प्रकाशितानि वा? न वा? इत्यपि विचारणीयमॆव तथापि ग्रन्थस्य अस्य दर्शनॆनैवाहं
अस्मिन् निबन्धलॆखनॆ उत्सुकॊऽभवम्
   अत्र प्रश्नॊऽयमुत्पद्यतॆ , यत् अस्य विज्ञानशतकस्य निर्दॆशकः कविर् भर्तृहरिः,त्रिशातिकर्ता भर्तृहरिश्च एक एव ? उत अन्यो वा? इत्यत्र मया कानि चन तुलनात्मकांशानि निक्षिप्यन्तॆ * कामिनीगर्हणम् :-अत्र कवॆर्जीवनसंविधानॆ या पत्न्यपराधसंबन्धनी कथा शॄयतॆ, तस्याः समर्थनॆ स्वॆनैवोक्तः
श्लॊकॊऽयमिति विद्वद्भिरुदाह्रियतॆ यत्-

       श्लॊ ॥ यां चिन्तयामि सततं मयि सा विरक्ता     
  साऽप्यन्यमिच्छति जनं जनॊऽन्यसक्तः।
अस्मत्कृतॆ परितुष्यति काचिदन्या,धिक् तां तम् च् मदनं इमां मां कविरयं ऎवंविधैः श्लोकैरनॆकैः कामिनीगर्हणं कृतवान् विज्ञानशतकॆऽपि
कामिनीगर्हणमुपलभ्यतॆ तदॆवं विदांकुर्वन्तु -श्लॊ॥ हरति वपुषः कान्तिं पुंसः करॊति बलक्षतिं,जनयति भृशं भ्रान्तिं नारी सुखाय निषॆविता

*
विरतिविरसा भूत्वा यस्मात् ततॊ विवॆकिभिर्,विषयविमुखैः सॆव्या मायासमाश्रित विग्रहा॥ (विज्ञान...३९.)कामिनीप्रशंसा :- अपिच त्रिशतककर्त्रा तस्याः कामिन्याः प्रशंसाऽपि कृता, या शृङ्गाररसस्यन्दना एव पश्यन्तु-श्लो॥ गुरुणा स्तनभारॆण मुखचंद्रॆण भास्वता।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा॥ (शृंगार..१९() )यद्यपि विज्ञानशतककारॆणापि -श्लो॥ कमलवदना पीनॊत्तुङ्गं घटाकृति बिभ्रती,स्तनयुगमियं तन्वी श्यामा विशालदृगंचला
विशद दशना मध्यॆ क्षामा वृथॆति जनाः श्रमं,विदधति मुधा रागादुच्चैरनीदृशवर्णनॆ (विज्ञान...४०.)इति वर्णितम् तथापि मातृत्वरूपमपि दृष्ट्वा एवं प्रशंसितवान्
श्लॊ जनयति सुतं कंचिन्नारी सती कुलभूषणं,निरुपमगुणैः पुण्यात्मानं जगत्परिपालनम्।
कथमपि सा निन्द्या वन्द्या भवॆन्महतां यतः,सुरसरिदिव ख्याता लॊकॆपवित्रितभूतलॆ .....(विज्ञान...४३.)एवं विधा मातृरूपस्त्रीप्रशंसा शतकत्रये तु नॊपलभ्यते *
"

"
हरिस्मरणम् :-हरिस्मरणविषये तु विज्ञानशतकारॆण कृता- कस्यालं क्लॆशॊ हरति हरिः कीर्तितगुणः॥.".... (विज्ञान....)इत्येवंस्तुतिरपि विद्यतॆ। एवमॆव नीतिशतककारेणाऽपि-तुष्टे विष्टपहारिणीष्टदहरौ संप्राप्यतॆ दॆहिना॥."...(नीति..)इति कृतभक्तचेष्टितैः संतृप्तॊ भगवान् श्रीहरिः श्लाघनीयानि भक्ता पुत्र कलत्रमित्रादी नि ददातीत्युक्तम्

*
शिवभक्तिः :-तथापि त्रिशतककर्त्रा तु यद्यपि शिवकेशवयॊरभेदं जानन्नपि आत्मनस्तु शिवे एव
परमभक्तिरस्तीति सुस्पष्टमवोचत् यत्-श्लॊ॥ महॆश्वरे वा जगतामधीश्वरेजनार्दने वा जगदन्तरात्मनि।
वस्तुभेदप्रतिप्रत्तिरस्ति मे,तथाऽपि भक्तिस्तरुणेन्दुशेखरे॥...... (वैराग्य...४८ )विज्ञानशतककारॆणापि -श्लॊ॥ चिद्रत्नमत्र पतितं वपुरन्धकूपे,पुंसो भ्रमादनुपमं महनीयतॆजः।

तदा
सद्य: समुद्धरति तद्भविता कृतार्थॊ,मन्ये एव समुपासित विश्वनाथः॥.... (विज्ञान...२४.)इति शिवभक्तिप्रशंसा कृता। तथापि अस्य कवेः श्रीरङ्गधाम्नि परमभक्तिर् दृश्यते एव दृश्यते एव अनेकत्र। दृश्यतां-श्लॊ॥न चित्ते सामर्थ्यं भवनमरणातंक हरणे,मनॊनिर्दिष्टेऽस्मिन्नपगतगुणे ज्ञातुमकुलॆ। मेघश्यामं कमलदलदीर्घाक्षममलं,भजस्व श्रीरंगं शरदमृतधामाधिकमुखम्॥.........(विज्ञान...१६.)तदेवमत्र श्रीरङ्गधामेश्वरीदेव्याः स्तुतिः श्रीसूक्तात् स्मर्यते-श्लो॥ लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं..................................वन्दे मुकुन्दप्रियाम्॥
यदनया स्तुत्या श्रीरङ्गधामक्षेत्रस्य आधुनिकत्व मत निरसन द्वारा विज्ञानशतक कर्तृरपि आधुनिकत्वप्रकल्पनं निरस्तं भवेदिति वक्तुं शक्यत इति मन्यॆ ।अस्तु * काशीपुरवासेच्छा :-काशीपुरवासेच्छा विषये त्रिशतककारिणा वैराग्यशतकॆ त्वेवमुत्कण्ठता प्रदर्शिता।
श्लो॥ कदा वाराण्स्याममरतटिनीरोधसि वसन्,वसानः कौपीनं शिरसि निदधानॊऽञ्जलिपुटम्
अयॆ! गौरीनाथ ! त्रिपुरहर ! शम्भॊ ! त्रिनयन !प्रसीदेत्याक्रोषन्निमिषमिव नेष्यामि दिवसान् ..... (वैराग्य...८७ )अत्र काशीतटवाहिन्याः गंगानद्याः पुलिनतटे शिवस्मरणेच्छा प्रकटिता । यदनॆनास्य
वं
काशीक्षॆत्रे कृतनिवासेच्छा, विश्वेश्वरे गंगायां च् परमभक्तिः सुस्पष्टतया निरूपिता। तथै प्रकारेण अनॆकत्रापि बहुधा दर्शिता कविना भक्तिः एवमॆवमॆव विज्ञानशतकॆऽपि -श्लॊ॥ कदा भागीरथ्या भवजलधिसंसारतरणेः,स्खलद्वीचीमालाचपलतलविस्तारित मुदः
तमस्थाने कुञ्जे क्वचिदपि निविश्याहृतमना,भविष्याम्येकाकी नरकमथने ध्यानरसिकः॥ ..(विज्ञान...८५.)इत्युक्तम् अत्र गंगातटिनीरोधसि निवसितुं कविना प्रकटितेच्छा। तत्रापि
एकाकी सन् एवं वैराग्यशतकेऽपि-श्लो॥ एकाकी निस्पृहः शान्तः पाणिपात्रॊ दिगंबरः।
कदा शम्भॊ ! भविष्यामि कर्म निर्मूलनक्षमः॥ (वैराग्य...८९ )इति कविरेकाकी एव भूत्वा निवसने इच्छुकवानस्मीति प्रकटितवान् एवं गंगास्तवनमपिउभयत्र प्रदर्शितं मुक्तकैरनॆकैः। किन्तु विज्ञानशतककारेण तद्गंगापुलिने गॊविंदनाम
स्मरणासक्तिरपि प्रदर्शिता। पश्यन्तु-श्लॊ॥ कदागोविन्देति प्रतिदिवसमुल्लासमिलिताः,सुधाधारा प्राया स्त्रिदशतटिनीवीचिमुखरे
भविष्यत्येकान्ते क्वचिदपि निकुञ्जे ममगिरॊ,मरालीचक्राणां श्रुतिसुखरवाक्रान्तपुलिनॆ॥ .................... (विज्ञान...८६.)इति।अत्र प्रायागस्थस्य भगवतो माधवस्य नामधेयमेव भवॆत् यतः एव भगवान्
खलु गंगायुते त्रिवेणी संगमस्थानतटे विलसति यतो हि -श्लो॥ काशीक्षॆत्रनिवासं कालभैरवदर्शनम्।प्रयागॆ माधवं दृष्ट्वा एक बिल्वं शिवार्पणम्॥इति भगवता विश्वेश्वरेण सह स्तुतॊ हि माधवः।धनाकाङ्क्षा विरक्तिः -धनाकाङ्क्षा , कुनृपतिभिर्दत्तसुखमपि विज्ञानशतककारॆण एवं निरस्तं- दृश्यताम्
श्लो॥ अहं श्रान्तो ऽध्वानं बहुविधमतिक्रम्य विषमं, धनाकाङ्क्षाक्षिप्तः कुनृपतिसुखालोकनपरः
इदानीं केनापि स्थितिमुदरकूपस्य भरणॆ,कदन्नॆनारण्यॆ क्वचिदपि समीहे स्थिरमतिः ........ (विज्ञान...७७ ) एवं वैराग्यशतकेऽपि-श्लो चेतश्चिन्तय मा रमां सुकृदिमामास्थायिनीमास्थया,भूपालभृकुटीकुटीविहरण व्यापारपण्यङ्गनाम्

कन्थाकंचुकिताः प्रविश्य भवनद्वाराणि वाराणसी-रथ्यापङ्क्तिषु पाणिपात्र पतितां भिक्षापीक्षामहे इति कविः स्वचेतः संबोधयन् नृपतिभिर्दत्तसंपदं निरस्तवान् ............. (वैराग्य...६५ ) गं गणपतयॆ नमः । श्री मात्रॆ नमः । श्रीसरस्वत्यै नमः। ॐ श्री उमेशाभ्यां नमः।भर्तुहरॆर्विज्ञानशतककर्तृत्वपरिशीलनम्कोरिडे विश्वनाथ शर्मा

संस्कृतोपन्यासक:श्री ..सं.आं.कलाशाला,धर्मपुरी.लॊकॆ प्रसिद्धः खलु भर्तृहरिः। यश्च तावन्नीतिशृङ्गारवैराग्याख्यानि शतकानि विरचितवान् कवॆरस्यमुक्तकश्लॊकास्तु नितरां प्रचुरतराः आसॆतुहिमाचलपर्यन्तं जनसामान्यानामपि कण्ठगतत्वॆन कवेरस्य कवितायाः प्राशस्त्यं व्यज्यतॆ कविरयं स्वनीतिशतकॆन पामरानपि जनान् नयमार्गानुसरान् कर्तुं प्रयतत। शृङ्गारशतकॆनापि शृङ्गाररसगुलिकैः पद्यरत्नैः पठितॄणां हृदयानि मनॊल्लासपरिपूर्णानि कृतानि नितराम्।
तस्मादारभ्य तृतीयशतकान्तं वैराग्यं विस्तारितं कविना, यॆन सहृदया अपि मुमुक्षवॊ भवेयुः
तदत्र तॆषु श्लॊकॆषु क्रमॊऽयं विद्यतॆ,यदनॆनैव मार्गॆण जनॊ नीति संपन्नॊ भूत्वा शृङ्गारी सन्, ततॊ विरक्तिं प्राप्य अवधूतमार्गावलंब्य मुमुक्षुर्भविष्यति ऎतॆषां निर्माणॆ भर्तृहरिर्न कॆवलं कविरॆव,अनुभूतकर्मकश्चॆति तस्य शतकानां संदर्शनॆनावगम्यतॆ। यतः `भार्यया कृतापराधया विरक्तॊ भूत्वा सन्यासाश्रमं स्वीकृतवा'निति कवॆर्विषयॆ काचित्कथा प्रसिद्धा सा सत्यमॆवॆति मन्तुं शक्यतॆ।शतकत्रयस्यास्य प्रतयस्तु विभिन्नतया लभ्यन्तॆ ऎकस्य़ामपलब्धः श्लॊकस्त्वन्यस्यां
पाठान्तरॆण वा अथवा नचैव वा उपलभ्यतॆ क्रमभॆदतयापि वा विद्यतॆ द्वादशशता- ब्दीयॆन रामचंद्रबुधॆन्द्रॆण विरचितव्याख्यासहित शतकॆषु उपलब्ध पद्धति विधानं
त्वितरत्र नॊपलभ्यते पाठान्तराण्यप्यनॆकानि विद्यन्ते। श्लॊकॊऽयं भर्तृरॆवॆति,नायमिति वक्तुं दूस्साध्यं भवति। व्याख्यानान्यप्यनॆकानि लभ्यन्तॆ।तदॆवं स्थितॆ मुम्बायि नगरस्थित गुजरात् प्रिण्टिंग् प्रेस् नामक प्रकाशकैर् " विज्ञानशतकम् " नाम ग्रंथः प्रकाशितः षष्टि (६०) वर्षपूर्वमॆव () घूर्जर (गुजरात्) भाषायां यस्य ग्रन्थस्य व्याख्याऽपलब्धा तत्रैव अन्यैरॆष ग्रन्थः प्रकाशितॊ वा ? वा ? न ज्ञायतॆ अस्मिन् विषयॆ अस्मत् पितृपादॆन संस्कृतसाहित्यरत्न पदलाञ्छनॆन डा॥ कॊरिडॆ राजन्न शास्त्रि महॊदयॆन २००३ वत्सरॆ प्रकाशितॊ लघुनिबन्धः () अमुं विहाय निबन्धा ह्यन्यॆशोधनान्यपि चान्यानि प्रकाशितानि वा? न वा? इत्यपि विचारणीयमॆव तथापि ग्रन्थस्य अस्य दर्शनॆनैवाहं अस्मिन् निबन्धलॆखनॆ उत्सुकॊऽभवम्
अत्र प्रश्नॊऽयमुत्पद्यतॆ , यत् अस्य विज्ञानशतकस्य निर्दॆशकः कविर् भर्तृहरिः,त्रिशातिकर्ता भर्तृहरिश्च एक एव ? उत अन्यो वा? इत्यत्र मया कानि चन तुलनात्मकांशा-नि निक्षिप्यन्तॆ * कामिनीगर्हणम् :-अत्र कवॆर्जीवनसंविधानॆ या पत्न्यपराधसंबन्धनी कथा शॄयतॆ, तस्याः समर्थनॆ स्वॆनैवोक्तः
श्लॊकॊऽयमिति विद्वद्भिरुदाह्रियतॆ यत्-श्लॊ ॥ यां चिन्तयामि सततं मयि सा विरक्ता,साऽप्यन्यमिच्छति जनं जनॊऽन्यसक्तः।

कन्थाकंचुकिताः प्रविश्य भवनद्वाराणि वाराणसी-रथ्यापङ्क्तिषु पाणिपात्र पतितां भिक्षापीक्षामहे इति कविः स्वचेतः संबोधयन् नृपतिभिर्दत्तसंपदं निरस्तवान् ............. (वैराग्य...६५ )