ॐ गं गणपतयॆ नमः । ॐ श्री मात्रॆ नमः । ॐ श्रीसरस्वत्यै नमः। ॐ श्री उमेशाभ्यां नमः।
भर्तुहरॆर्विज्ञानशतककर्तृत्वपरिशीलनम्
कोरिडे विश्वनाथ शर्मा
संस्कृतोपन्यासक:
लॊकॆ प्रसिद्धः खलु भर्तृहरिः। यश्च तावन्नीतिशृङ्गारवैराग्याख्यानि शतकानि विरचितवान् । कवॆरस्यमुक्तकश्लॊकास्तु नितरां प्रचुरतराः । आसॆतुहिमाचलपर्यन्तं जनसामान्यानामपि कण्ठगतत्वॆन कवेरस्य कवितायाः प्राशस्त्यं व्यज्यतॆ । कविरयं स्वनीतिशतकॆन पामरानपि जनान् नयमार्गानुसरान् कर्तुं प्रयतत। शृङ्गारशतकॆनापि शृङ्गाररसगुलिकैः पद्यरत्नैः पठितॄणां हृदयानि मनॊल्लासपरिपूर्णानि च कृतानि नितराम्।तस्मादारभ्य तृतीयशतकान्तं वैराग्यं विस्तारितं कविना, यॆन सहृदया अपि मुमुक्षवॊ भवेयुः ।
तदत्र तॆषु श्लॊकॆषु क्रमॊऽयं विद्यतॆ,यदनॆनैव मार्गॆण जनॊ नीति संपन्नॊ भूत्वा शृङ्गारी च सन्, ततॊ विरक्तिं च प्राप्य अवधूतमार्गावलंब्य मुमुक्षुर्भविष्यति । ऎतॆषां निर्माणॆ भर्तृहरिर्न कॆवलं कविरॆव,अनुभूतकर्मकश्चॆति तस्य शतकानां संदर्शनॆनावगम्यतॆ। यतः `भार्यया कृतापराधया विरक्तॊ भूत्वा सन्यासाश्रमं स्वीकृतवा'निति कवॆर्विषयॆ काचित्कथा प्रसिद्धा । सा सत्यमॆवॆति मन्तुं शक्यतॆ।
शतकत्रयस्यास्य प्रतयस्तु विभिन्नतया लभ्यन्तॆ । ऎकस्य़ामपलब्धः श्लॊकस्त्वन्यस्यां
पाठान्तरॆण वा अथवा नचैव वा उपलभ्यतॆ । क्रमभॆदतयापि वा विद्यतॆ । द्वादशशताब्दीयॆन रामचंद्रबुधॆन्द्रॆण विरचितव्याख्यासहित शतकॆषु उपलब्ध पद्धति विधानं त्वितरत्र नॊपलभ्यते । पाठान्तराण्यप्यनॆकानि च विद्यन्ते। श्लॊकॊऽयं भर्तृरॆवॆति,नायमिति च वक्तुं दूस्साध्यं भवति। व्याख्यानान्यप्यनॆकानि लभ्यन्तॆ।
तदॆवं स्थितॆ मुम्बायि नगरस्थित गुजरात् प्रिण्टिंग् प्रेस् नामक प्रकाशकैर् " विज्ञानशतकम् "
नाम ग्रंथः प्रकाशितः षष्टि (६०) वर्षपूर्वमॆव (१) । घूर्जर (गुजरात्) भाषायां यस्य ग्रन्थस्य
व्याख्याऽप्युपलब्धा तत्रैव । अन्यैरॆष ग्रन्थः प्रकाशितॊ वा ? न वा ? न ज्ञायतॆ । अस्मिन्
विषयॆ अस्मत् पितृपादॆन संस्कृतसाहित्यरत्न पदलाञ्छनॆन डा॥ कॊरिडॆ राजन्नशास्त्रि
महॊदयॆन २००३ वत्सरॆ प्रकाशितॊ लघुनिबन्धः (२) । अमुं विहाय निबन्धा ह्यन्यॆशोधनान्यपि
चान्यानि प्रकाशितानि वा? न वा? इत्यपि विचारणीयमॆव । तथापि ग्रन्थस्य अस्य दर्शनॆनैवाहं
अस्मिन् निबन्धलॆखनॆ उत्सुकॊऽभवम् ।
अत्र प्रश्नॊऽयमुत्पद्यतॆ , यत् अस्य विज्ञानशतकस्य